Классификация звуков санскрита

В этом уроке объясняется классификация и произношение звуков санскрита. Эта классификация используется как в индийском, так и в западном изучении санскрита, хоть и с небольшими отличиями.

Сначала идёт классификация звуков по месту звукоизвлечения:
Зубные कण्ठः
Средненёбные तालुः
Церебральные मूर्धा (пропущено на видео)
Зубные दन्तः
Губные ओष्ठः

Потом даётся деление на придыхательные (महाप्राणाः) и अल्पप्राणाः (непридыхательные)
Потом деление на घोषवर्णाः (звонкие) и (अघोषवर्णाः )глухие.
Далее упоминаются три основные лигатуры: क्ष, ज्ञ, त्र .
И ещё раз даётся всё это перечисление в виде песенки.

Всё это подробно объясняется и несколько раз проговаривается правильное произношение звуков санскрита.

Полная стенограмма:

खेलक्रमे संस्कृतशिक्षणम्

नमस्कारः

अद्य वार्तावल्याः संस्कृतशिक्षणक्रमे भवतां पुनः स्वागतम् ।

भवन्तः जानन्ति यत् वर्णानां स्थानानि कानि कानि भवन्ति ।

तत्र ‘क’ वर्णस्य स्थानं वर्तते कण्ठः ।

‘च’ वर्णस्य स्थानं वर्तते तालुः ।
‘ट’ वर्णस्य स्थानं वर्तते मूर्धा ।
‘त’ वर्णस्य स्थानं वर्तते दन्तः ।
‘प’ वर्णस्य स्थानं वर्तते ओष्ठः ।

तत्र चतुर्दश सूत्राणि सन्ति ।
जानन्ति, न वा ?

1.अइउण् 2. ऋलृक् 3. एओङ् 4. ऐऔच् 5. हयवरट् 6. लण् 7. ञमङणनम् 8. झभञ् 9. घढधष् 10. जबगडदश् 11. खफछठथचटतव् 12.कपय् 13. शषसर् 14. हल्

त्रयोदश स्वराः , तथा च त्रयस्त्रिंशत् व्यञ्जनानि ।

तेषां स्थानानि सन्ति
यथा ‘क’ वर्णस्य स्थानम् अपि कण्ठः  यथा ‘ख’ वर्णस्य स्थानम् अपि कण्ठः ।
किन्तु उच्चारणे किञ्चित् भेदः वर्तते ।

यदा वयं ‘क’ वदामः, तदा तत्र प्राणे अल्पश्रमः भवति ।

प्राणवायोः अल्पः श्रमः भवति ।

यदा वयं ‘ख’ वदामः, तदा किं भवति ?

तत्र स्वरः अधिकः भवति ।
तत्र ‘क’ इति अल्पप्राणः ।
‘ख’ इति महाप्राणः ।
सम्यक् !

‘ग’ इति अल्पप्राणः ।

‘घ’ इति महाप्राणः ।
‘ङ’ इति अल्पप्राणः ।

सम्यक्? जानन्ति?

क-च-ट-त-प इत्येते अल्पप्राणाः ।

ख-छ-ठ-थ-फ इत्येते महाप्राणाः ।

एवम्
ग-ज-ड-द-ब इत्येते अल्पप्राणाः ।

घ-झ-ढ-ध-भ इत्येते महाप्राणाः ।

सम्यक्?

एवम् हि य-र-ल-व इत्येते अल्पप्राणाः ।

‘ह’ इति महाप्राणः ।
घोषवर्णाः – अघोषवर्णाः च

ग-घ-ङ, ज-झ-ञ इत्येते घोषवर्णाः ।

ड-ढ-ण, द-ध-न इत्येतेऽपि घोषवर्णाः ।

ब-भ-म, य-र-ल-व-ह इत्येतेऽपि घोषवर्णाः ।

किन्तु अघोषवर्णाः

घोषवर्ण- अघोषवर्णयोः तत्र भेदः वर्तते ।
तत्र स्पन्दनं भवति यदा, तदा ते घोषवर्णाः ।

यदा स्वरतन्त्रिकायां स्पन्दनं भवति, तदा ते वर्णाः घोषवर्णाः भवन्ति ।
यदा स्वरतन्त्रिकायां स्पन्दनं न्यूनं भवति, तदा ते अघोषवर्णाः ।
यथा क-ख-च-छ-ट ।

क – ग

‘क’ इति अघोषवर्णः

‘ग’ इति घोषवर्णः

क-ख, च-छ, ट-ठ इति अघोषवर्णाः ।
त-थ, प-फ, श-ष-स इति अघोषवर्णाः ।

जानन्ति?
आम्

संस्कृतभाषायाः वर्णमाला वैज्ञानिकी वर्तते ।

यथा लिख्यते, तथैव उच्यते ।
तथैव पठ्यते ।

यथा अस्माकं शरीरं वर्तते, अस्माकं स्वरतन्त्रं वर्तते ।

स्वरतन्त्रात् ये ये वर्णाः यस्मात् स्थानात् निःसरन्ति, तथैव तस्य उच्चारणं भवति ।

उच्चारणे यादृशः श्रमः भवति, तस्य नाम उपि तथैव वर्तते ।

यथा घोषवर्णः – अघोषवर्णः

अल्पप्राणः – महाल्पप्राणः

कण्ठ्यः, तालव्यः, मूर्धन्यः, दन्त्यः, ओष्ठ्यः

तथैव संयुक्ताक्षराणि सन्ति ।

जानन्ति?

क् + ष योगे क्ष
ज+ञ योगे ज्ञ

त्+र योगे त्र

त्रिशूल

सांप्रतम् एकं गीतम् ।
अहं पठामि, भवन्तः अनुकुर्वन्ति ।

क-ग-ङ – च-ज-ञ अल्पप्राणाः ।
ट-ड-ण – त-द-न अल्पप्राणाः ।
प-ब-म – य-र-ल-व अल्पप्राणाः ।

ख-घ-छ-झ-ठ-ढ महाल्पप्राणाः ।
थ-ध-फ-भ-श-ष महाल्पप्राणाः ।
स-ह इत्येते महाल्पप्राणाः ।

एवं हि घोष-अघोषवर्णाः ।

ग-घ-ङ – ज-झ-ञ घोषवर्णाः ।
ड-ढ-ण – द-ध-न घोषवर्णाः ।
ब-भ-म – य-र-ल घोषवर्णाः ।
व-ह च इत्येते घोषवर्णाः ।

क-ख-च-छ-ट-ठ अघोषवर्णाः ।
त-थ-प-फ-श-ष अघोषवर्णाः ।
स अपि इत्येते अघोषवर्णाः ।

साधु सम्यक्

सम्पन्ना इयं कक्षा । आगम्यसप्ताहे पुनः समागमिष्यामः । तावत् पर्यन्तम् । नमस्कारः

 

खेलक्रमे संस्कृतशिक्षणम्

 

 

Хотите научиться?

  • Набирать тексты на санскрите на своём компьютере
  • Читать надписи на изделиях из Индии и татуировках
  • Понимать письменность санскрита и современных индийских языков
  • Понимать и правильно произносить мантры
  • Читать древние Веды в оригинале

Введите адрес электронной почты и подпишитесь на обучающую рассылку!


Leave a Comment

Защита от спама * Лимит времени истёк. Пожалуйста, перезагрузите CAPTCHA.